|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.144. अध्यायः 144
Mahabharata - Shanti Parva - Chapter Topics
महावृक्षनिवासिना कपोतेनाहारार्थं गतायां निजपत्न्यां रात्रावनागतायां तद्गुणानुवर्णनपूर्वकं तांप्रति शोचनम्॥ 1॥ भर्तृविलापं श्रुतवत्या व्याधपञ्जरस्थया कपोत्या धर्मोपन्यासपूर्वकं पतिंप्रति व्याधसत्कारचोदना॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-144-0x(5782)(70809)
अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः।
दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः॥ 12-144-1(70810)
तस्य कल्यगता भार्या चरितुं नाभ्यवर्तत।
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत॥ 12-144-2(70811)
वातवर्षं महच्चासीन्न चागच्छति मे प्रिया।
किंनु तत्कारणं येन साऽद्यापि न निवर्तते॥ 12-144-3(70812)
अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने॥
तया विरहितं हीदं शून्यमद्य गृहं मम। 12-144-4(70813)
पुत्रपौत्रवधूभृत्यैराकीर्णमपि सर्वतः।
भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत्॥ 12-144-5(70814)
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते।
गृहं तु गृहिणीहीनमरण्यसदृशं मतम्॥ 12-144-6(70815)
यदि सा रक्तेत्रान्ता चित्राङ्गी मधुरस्वरा।
अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे॥ 12-144-7(70816)
न भुङ्क्ते मय्यभुक्ते या नास्नाते स्नाति सुव्रता।
नातिष्ठत्युपतिष्ठेन शेते च शयिते मयि॥ 12-144-8(70817)
हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता।
प्रोपिते दीनवदना क्रुद्धे च प्रियवादिनी॥ 12-144-9(70818)
पतिधर्मव्रता साध्वी प्राणेभ्योऽपि गरीयसी।
यस्य स्यात्तादृशी भार्या धन्यः स पुरुषो भुवि॥ 12-144-10(70819)
सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी।
अनुरक्ता स्थिरा चैव भक्ता स्निग्धा यशस्विनी॥ 12-144-11(70820)
वृक्षमूलेऽपि दयिता यस्य तिष्ठति तद्गृहम्।
प्रासादोपि तया हीनः कान्तार इति निश्चितम्॥ 12-144-12(70821)
धर्मार्थकामकालेषु भार्या पुंसः सहायिनी।
विदेशगमने चास्य सैव विश्वासकारिका॥ 12-144-13(70822)
भार्या हि परमो ह्यर्थः पुरुषस्येह पट्यते।
असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी॥ 12-144-14(70823)
तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च।
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम्॥ 12-144-15(70824)
नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः।
नास्ति भार्यासमो लोके सहायो धर्मसंग्रहे॥ 12-144-16(70825)
यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम्॥ 12-144-17(70826)
भीष्म उवाच। 12-144-18x(5783)
एवं विलपतस्तस्य द्विजस्यार्तस्य वै तदा।
गृहीता शकुनिघ्नेन भार्या शुश्राव भारतीम्॥ 12-144-18(70827)
कपोत्युवाच। 12-144-19x(5784)
अहोऽतीव सुभाग्याऽहं यस्या मे दयितः पतिः।
असतो वा सतो वाऽपि गुणानेवं प्रभाषते॥ 12-144-19(70828)
सा हि स्त्रीत्यवगन्तव्या यस्य भर्ता तु तुष्यति।
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः।
अग्निसाक्षिकमप्येतद्भर्ता हि शरणं परम्॥ 12-144-20(70829)
दावाग्निनेव निर्दग्धा सपुष्पस्तबका लता।
भस्मीभवति सा नारी यस्या भर्ता न तुष्यति॥ 12-144-21(70830)
इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा।
कपोती लुब्धकेनापि गृहीता वाक्यमब्रवीत्॥ 12-144-22(70831)
हन्त वक्ष्यामि ते श्रेयः श्रुत्वा तु कुरु तत्तथा।
शरणागतसंत्राता भव कान्त विशेषतः॥ 12-144-23(70832)
एष शाकुनिकः शेते तव वासं समाश्रितः।
शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर॥ 12-144-24(70833)
यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम्।
शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम्॥ 12-144-25(70834)
अस्माकं विहिता वृत्तिः कापोती जातिधर्मतः।
सा न्याय्याऽऽत्मवता नित्यं त्वद्विधेनानुवर्तितुं॥ 12-144-26(70835)
यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते।
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम्॥ 12-144-27(70836)
स त्वं संतानवानद्य पुत्रवानपि च द्विज।
त्वं स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य य।
पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा॥ 12-144-28(70837)
शरीरे मा च संतापं कुर्वीथास्त्वं विहगंम।
शरीरयात्रावृत्त्यर्थमन्यान्दारानुपैष्यसि॥ 12-144-29(70838)
इति सा शकुनी वाक्यं पञ्जरस्था तपस्विनी।
अतिदुःखान्विता प्रोक्त्वा भर्तारं समुदैक्षत॥ ॥ 12-144-30(70839)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चतुश्चत्वारिंशदधिशततमोऽध्यायः॥ 144॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-144-10 पतिव्रता पतिगतिः पतिप्रियहिते रता हि झ. पाठः॥ 12-144-14 भार्या हि परमो नाथ इति ड. थ. पाठः॥ 12-144-21 न सा स्त्रीत्यवगन्तव्या यस्यां भर्ता न तुष्यतीति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|